Bhrigu Valli

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

*NOTE: Choose desired output script using Aksharamukha (screen top-right) to see Vedaswara.

भृगुवल्ली

ॐ श्री गुरुभ्यो नमः । ह॒रिः॒ ॐ ।

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।

ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

भृ॑गु॒र्वै वा॑रु॒णिः । वरु॑णं॒ पित॑र॒मुप॑ससार ।

अधी॑हि भगवो॒ ब्रह्मेति॑ । तस्मा॑ ए॒तत्प्रो॑वाच ।

अन्नं॑ प्रा॒णं चक्षुः॒ श्रोत्रं॒ मनो॒ वाच॒मिति॑ ।

तꣳहो॑वाच । यतो॒ वा इ॒मानि॒ भूता॑नि॒ जाय॑न्ते ।

येन॒ जाता॑नि॒ जीव॑न्ति ।

यत्प्रय॑न्त्य॒भिसंवि॑शन्ति । तद्विजि॑ज्ञासस्व । तद्ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥ 

अन्नं॒ ब्रह्मेति॒ व्य॑जानात् । अ॒न्नाद्ध्ये॑व खल्वि॒मानि॒

भुता॑नि॒ जाय॒न्ते । अन्ने॑न॒ जाता॑नि॒ जीव॑न्ति ।

अन्नं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।

पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।

अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।

तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥

प्रा॒णो ब्रह्मेति॒ व्य॑जानात् । प्रा॒णाद्ध्ये॑व खल्वि॒मानि॒

भूता॑नि॒ जाय॑न्ते । प्रा॒णेन॒ जाता॑नि॒ जीव॑न्ति ।

प्रा॒णं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।

पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।

अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।

तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥

मनो॒ ब्रह्मेति॒ व्य॑जानात् । मन॑सो॒ ह्ये॑व खल्वि॒मानि॒

भूता॑नि॒ जाय॑न्ते । मन॑सा॒ जाता॑नि॒ जीव॑न्ति ।

मनः॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।

पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।

अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।

तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥

वि॒ज्ञानं॒ ब्रह्मेति॒ व्य॑जानात् । वि॒ज्ञाना॒द्ध्ये॑व खल्वि॒मानि॒

भूता॑नि॒ जाय॑न्ते । वि॒ज्ञाने॑न॒ जाता॑नि॒ जीव॑न्ति ।

वि॒ज्ञानं॒ प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ । तद्वि॒ज्ञाय॑ ।

पुन॑रे॒व वरु॑णं॒ पित॑र॒मुप॑ससार ।

अधी॑हि भगवो॒ ब्रह्मेति॑ । तꣳहो॑वाच ।

तप॑सा॒ ब्रह्म॒ विजि॑ज्ञासस्व । तपो॒ ब्रह्मेति॑ ।

स तपो॑ऽतप्यत । स तप॑स्त॒प्त्वा ॥

आ॒न॒न्दो ब्र॒ह्मेति॒ व्य॑जानात् । आ॒नन्दा॒ध्ये॑व खल्वि॒मानि॒

भूता॑नि॒ जाय॑न्ते । आ॒न॒न्देन॒ जाता॑नि॒ जीव॑न्ति ।

आ॒न॒न्दं प्रय॑न्त्य॒भिसंवि॑श॒न्तीति॑ ।

सैषा भा᳚र्ग॒वी वा॑रु॒णी वि॒द्या । प॒र॒मे व्यो॑म॒न्प्रति॑ष्ठिता ।

स य ए॒वं वेद॒ प्रति॑तिष्ठति । अन्न॑वानन्ना॒दो भ॑वति ।

म॒हान्भ॑वति प्र॒जया॑ प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ ।

म॒हान् की॒र्त्या ॥

अन्नं॒ न नि॑न्द्यात् । तद्॒व्रतम् । प्रा॒णो वा अन्नम्॑ ।

शरी॑रमन्ना॒दम् । प्रा॒णे शरी॑रं॒ प्रति॑ष्ठितम् ।

शरी॑रे प्रा॒णः प्रति॑ष्ठितः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।

स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।

अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑

प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥

अन्नं॒ न परि॑चक्षीत । तद्॒व्रतम् । आपो॒ वा अन्न॑म् ।

ज्योति॑रन्ना॒दम् । अ॒प्सु ज्योतिः॒ प्रति॑ष्ठितम् ।

ज्योति॒ष्यापः॒ प्रति॑ष्ठिताः । तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।

स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।

अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑

प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥

अन्नं॑ ब॒हु कु॑र्वीत । तद्॒व्रतम् । पृ॒थि॒वी वा अन्नम्॑ ।

आ॒का॒शो᳚ऽन्ना॒दः । पृ॒थि॒व्यामा॑का॒शः प्रति॑ष्ठितः ।

आ॒का॒शे पृ॑थि॒वी प्रति॑ष्ठिता ।

तदे॒तदन्न॒मन्ने॒ प्रति॑ष्ठितम् ।

स य ए॒तदन्न॒मन्ने॒ प्रति॑ष्ठितं॒ वेद॒ प्रति॑तिष्ठति ।

अन्न॑वानन्ना॒दो भ॑वति । म॒हान्भ॑वति प्र॒जया॑

प॒शुभि॑र्ब्रह्मवर्च॒सेन॑ । म॒हान् की॒र्त्या ॥

न कञ्चन वसतौ प्रत्या॑चक्षी॒त । तद्॒व्रतम् ।

तस्माद्यया कया च विधया बह्व॑न्नं प्रा॒प्नुयात् ।

अराध्यस्मा अन्नमि॑त्याच॒क्षते ।

एतद्वै मुखतो᳚ऽन्नꣳ रा॒द्धम् ।

मुखतोऽस्मा अ॑न्नꣳ रा॒ध्यते ।

एतद्वै मध्यतो᳚ऽन्नꣳ रा॒द्धम् ।

मध्यतोऽस्मा अ॑न्नꣳ रा॒ध्यते ।

एदद्वा अन्ततो᳚ऽ॑न्नꣳ रा॒द्धम् ।

अन्ततोऽस्मा अ॑न्न॑ रा॒ध्यते ॥

य ए॑वं वे॒द । क्षेम इ॑ति वा॒चि । योगक्षेम

इति प्रा॑णापा॒नयोः ।

कर्मे॑ति ह॒स्तयोः । गतिरि॑ति पा॒दयोः । विमुक्तिरि॑ति पा॒यौ ।

इति मानुषीः᳚ समा॒ज्ञाः । अथ दै॒वीः । तृप्तिरि॑ति वृ॒ष्टौ ।

बलमि॑ति वि॒द्युति ॥

यश इ॒ति प॒शुषु । ज्योतिरिति न॑क्षत्रे॒षु ।

प्रजातिरमृतमानन्द इ॑त्युप॒स्थे । सर्वमि॑त्याका॒शे ।

तत्प्रतिष्ठेत्यु॑पासी॒त । प्रतिष्ठा॑वान् भ॒वति ।

तन्मह इत्यु॑पासी॒त । म॑हान्भ॒वति । तन्मन इत्यु॑पासी॒त ।

मान॑वान्भ॒वति ॥

तन्नम इत्यु॑पासी॒त । नम्यन्ते᳚ऽस्मै का॒माः ।

तद्ब्रह्मेत्यु॑पासी॒त । ब्रह्म॑वान्भ॒वति ।

तद्ब्रह्मणः परिमर इत्यु॑पासी॒त ।

पर्येणं म्रियन्ते द्विषन्तः॑ सप॒त्नाः ।

परि ये᳚ऽप्रिया᳚ भ्रातृ॒व्याः ।

स यश्चा॑यं पु॒रुषे । यश्चासा॑वादि॒त्ये । स एकः॑ ॥

स य॑ एवं॒वित् । अस्माल्लो॑कात्प्रे॒त्य ।

एतमन्नमयमात्मानमुप॑सङ्क्र॒म्य ।

एतं प्राणमयमात्मानमुप॑सङ्क्र॒म्य ।

एतं मनोमयमात्मानमुप॑सङ्क्र॒म्य ।

एतं विज्ञानमयमात्मानमुप॑सङ्क्र॒म्य ।

एतमानन्दमयमात्मानमुप॑सङ्क्र॒म्य ।

इमाँल्लोकन्कामान्नी कामरूप्य॑नुस॒ञ्चरन् ।

एतत् साम गा॑यन्ना॒स्ते । हा ३ वु॒ हा ३ वु॒ हा ३ वु॑ ॥

अ॒हमन्नम॒हमन्नम॒हमन्नम् ।

अ॒हमन्ना॒दोऽ॒३हमन्ना॒दोऽ॒३अहमन्ना॒दः ।

अ॒हꣳश्लोक॒कृद॒हꣳश्लोक॒कृद॒हꣳश्लोक॒कृत् ।

अ॒हमस्मि प्रथमजा ऋता३स्य॒ ।

पूर्वं देवेभ्योऽमृतस्य ना३भा॒इ॒ ।

यो मा ददाति स इदेव मा३अऽवाः॒ ।

अ॒हमन्न॒मन्न॑म॒दन्त॒मा३द्मि॒ ।

अ॒हं विश्वं॒ भुव॑न॒मभ्य॑भ॒वा३म् ।

सुव॒र्न ज्योतीः᳚ । य ए॒वं वेद॑ । इत्यु॑प॒निष॑त् ॥

ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै ।

ते॒ज॒स्वि ना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ।

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥