Shiksha Valli

हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।

*NOTE: Choose desired output script using Aksharamukha (screen top-right) to see Vedaswara.

शीक्षावल्ली

ॐ शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।

शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः ।

नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।

त्वामे॒व प्र॒त्यक्षं॒ ब्रह्म॑ वदिष्यामि । ऋ॒तं व॑दिष्यामि ।

स॒त्यं व॑दिष्यामि । तन्माम॑वतु । तद्व॒क्तार॑मवतु ।

अव॑तु॒ माम् । अव॑तु व॒क्तारम्᳚ ।

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

ॐ शीक्षां व्या᳚ख्यास्या॒मः । वर्णः॒ स्वरः । मात्रा॒ बलम् ।

साम॑ सन्ता॒नः । इत्युक्तः शी᳚क्षाध्या॒यः ॥

स॒ह नौ॒ यशः । स॒ह नौ ब्र॑ह्मव॒र्चसम् ।

अथातः सꣳहिताया उपनिषदम् व्या᳚ख्यास्या॒मः ।

पञ्चस्वधिक॑रणे॒षु ।

अधिलोकमधिज्यौतिषमधिविद्यमधिप्रज॑मध्या॒त्मम् ।

ता महासꣳहिता इत्॑याच॒क्षते । अथा॑धिलो॒कम् ।

पृथिवी पू᳚र्वरू॒पम् । द्यौरुत्त॑ररू॒पम् । आका॑शः स॒न्धिः ॥

वायुः॑ सन्धा॒नम् । इत्य॑धिलो॒कम् । अथा॑धिजौ॒तिषम् ।

अग्निः पू᳚र्वरू॒पम् । आदित्य उत्त॑ररू॒पम् । आ॑पः स॒न्धिः ।

वैद्युतः॑ सन्धा॒नम् । इत्य॑धिज्यौ॒तिषम् । अथा॑धिवि॒द्यम् ।

आचार्यः पू᳚र्वरू॒पम् ॥

अन्तेवास्युत्त॑ररू॒पम् । वि॑द्या स॒न्धिः ।

प्रवचन॑ꣳसन्धा॒नम् ।

इत्य॑धिवि॒द्यम् । अथाधि॒प्रजम् । माता पू᳚र्वरू॒पम् ।

पितोत्त॑ररू॒पम् । प्र॑जा स॒न्धिः । प्रजननꣳसन्धा॒नम् ।

इत्यधि॒प्रजम् ॥

अथाध्या॒त्मम् । अधराहनुः पू᳚र्वरू॒पम् ।

उत्तराहनूत्त॑ररू॒पम् । वाक्स॒न्धिः । जिह्वा॑सन्धा॒नम् ।

इत्यध्या॒त्मम् । इतीमाम॒हास॒ꣳहिताः ।

य एवमेता महासꣳहिता व्याख्या॑ता वे॒द ।

सन्धीयते प्रज॑या प॒शुभिः ।

ब्रह्मवर्चसेनान्नाद्येन सुवर्ग्येण॑ लोके॒न ॥

यश्छन्द॑सामृष॒भो वि॒श्वरू॑पः ।

छन्दो॒भ्योऽध्य॒मृता᳚त्सम्ब॒भूव॑ ।

स मेन्द्रो॑ मे॒धया᳚ स्पृणोतु ।

अ॒मृत॑स्य देव॒ धार॑णो भूयासम् ।

शरी॑रं मे॒ विच॑र्षणम् । जिह्॒वा मे॒ मधु॑मत्तमा ।

कर्णा᳚भ्यां॒ भूरि॒विश्रु॑वम् ।

ब्रह्म॑णः को॒शो॑ऽसि मे॒धया पि॑हितः ।

श्रु॒तं मे॑ गोपाय । आ॒वह॑न्ती वितन्वा॒ना ॥

कु॒र्वा॒णाऽचीर॑मा॒त्मनः॑ । वासा॑ꣳसि॒ मम॒ गाव॑श्च ।

अ॒न्न॒पा॒ने च॑ सर्व॒दा । ततो॑ मे॒ श्रिय॒माव॑ह ।

लो॒म॒शां प॒शुभिः॑ स॒ह स्वाहा᳚ ।

आमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

विमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

प्रमा॑ऽऽयन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

दमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ।

शमा॑यन्तु ब्रह्मचा॒रिणः॒ स्वाहा᳚ ॥

यशो॒ जने॑ऽसानि॒ स्वाहा᳚ । श्रेया॒न्॒ वस्य॑सोऽसानि॒ स्वाहा᳚ ।

तं त्वा॑ भग॒ प्रवि॑शानि॒ स्वाहा᳚ ।

स मा॑ भग॒ प्रवि॑श॒ स्वाहा᳚ ।

तस्मिन्᳚ स॒हस्र॑शाखे । निभ॑गा॒ऽहं त्वयि॑ मृजे॒ स्वाहा᳚ ।

यथाऽऽपः॒ प्रव॑ता॒ऽऽयन्ति॑ । यथा॒ मासा॑ अहर्ज॒रम् ।

ए॒वं मां ब्र॑ह्मचा॒रिणः॑ । धात॒राय॑न्तु स॒र्वतः॒ स्वाहा᳚ ।

प्र॒ति॒वे॒शो॑ऽसि॒ प्रमा॑भाहि॒ प्रमा॑पद्यस्व ॥

भूर्भुवः॒ सुव॒रिति॒ वा ए॒तास्ति॒स्रो व्याहृ॑तयः ।

तासा॑मुहस्मै॒ तां च॑तु॒र्थीम् । माहा॑चमस्यः॒ प्रवे॑दयते ।

मह॒ इति॑ । तद्ब्रह्म॑ । स आ॒त्मा । अङ्गा᳚न्य॒न्या दे॒वताः᳚ ।

भूरिति॒ वा अ॒यं लो॒कः । भुव॒ इत्य॒न्तरि॑क्षम् ।

सुव॒रित्य॒सौ लो॒कः ॥

मह॒ इत्या॑दि॒त्यः । आ॒दि॒त्येन॒ वाव सर्वे॑लो॒क मही॑यन्ते ।

भूरिति॒ वा अ॒ग्निः । भुव॒ इति॑ वा॒युः । सुव॒रित्या॑दि॒त्यः ।

मह॒ इति॑ च॒न्द्रमाः᳚ । च॒न्द्रम॑सा॒ वाव

सर्वा॑णि॒ ज्योतीꣳषि॒ मही॑यन्ते । भूरिति॒ वा ऋचः॑ ।

भुव॒ इति॒ सामा॑नि ।

सुव॒रिति॒ यजू॑ꣳषि ॥

मह॒ इति॒ ब्रह्म॑ । ब्रह्म॑णा॒ वाव सर्वे॑वे॒दा मही॑यन्ते ।

भूरिति॒ वै प्रा॒णः । भुव॒ इत्य॑पा॒नः । सुव॒रिति॑ व्या॒नः ।

मह॒ इत्यन्नम्᳚ । अन्ने॑न॒ वाव सर्वे᳚ प्रा॒ण मही॑यन्ते ।

ता वा ए॒ताश्चत॑स्रश्चतु॒र्धा । चत॑स्रश्चतस्रो॒ व्याहृ॑तयः ।

ता यो वेद॑ ।

स वे॑द॒ ब्रह्म॑ । सर्वे᳚ऽस्मैदे॒वा ब॒लिमाव॑हन्ति ॥

स य ए॒षो᳚ऽन्त॑हृदय आका॒शः ।

तस्मि॑न्न॒यं पुरु॑षो मनो॒मयः॑ । अमृ॑तो हिर॒ण्मयः॑ ।

अन्त॑रेण॒ तालु॑के । य ए॒षस्तन॑ इवाव॒लम्ब॑ते । से᳚न्द्रयो॒निः ।

यत्रा॒सौ के॑शा॒न्तो वि॒वर्त॑ते । व्य॒पोह्य॑ शीर्षकपा॒ले ।

भूरित्य॒ग्नौ प्रति॑तिष्ठति । भुव॒ इति॑ वा॒यौ ॥

सुव॒रित्या॑दि॒त्ये । मह॒ इति॒ ब्रह्म॑णि । आ॒प्नोति॒ स्वारा᳚ज्यम् ।

आ॒प्नोति॒ मन॑स॒स्पतिम्᳚ । वाक्प॑ति॒श्चक्षु॑ष्पतिः ।

श्रोत्र॑पतिर्वि॒ज्ञान॑पतिः । ए॒तत्ततो॑ भवति ।

आ॒का॒शश॑रीरं॒ ब्रह्म॑ ।

स॒त्यात्म॑ प्रा॒णारा॑मं॒ मन॑ आनन्दम् ।

शान्ति॑समृद्धम॒मृतम्᳚ ।

इति॑ प्राचीन यो॒ग्योपा᳚स्व ॥

पृ॒थि॒व्य॑न्तरि॑क्षं॒ द्यौर्दिशो॑ऽवान्तरदि॒शाः ।

अ॒ग्निर्वा॒युरा॑दि॒त्यश्च॒न्द्रमा॒ नक्ष॑त्राणि ।

आप॒ ओष॑धयो॒ वन॒स्पत॑य आका॒श आ॒त्मा । इत्य॑धिभू॒तम् ।

अथाध्या॒त्मम् । प्रा॒णो व्या॒नो॑ऽपा॒न उ॑दा॒नः स॑मा॒नः ।

चक्षुः॒ श्रोत्रं॒ मनो॒ वाक् त्वक् ।

चर्म॑मा॒ꣳस स्नावास्थि॑ म॒ज्जा ।

ए॒तद॑धिवि॒धाय॒ ऋषि॒रवो॑चत् ।

पाङ्क्तं॒ वा इ॒दꣳसर्वम्᳚ ।

पाङ्क्ते॑नै॒व पाङ्क्तग्॑ स्पृणो॒तीति॑ ॥

ओमिति॒ ब्रह्म॑ । ओमिती॒दꣳसर्वम्᳚ ।

ओमित्ये॒तद॑नुकृतिर्हस्म॒ वा अ॒प्योश्रा॑व॒येत्याश्रा॑वयन्ति ।

ओमिति॒ सामा॑नि गायन्ति । ॐꣳशोमिति॑ श॒स्त्राणि॑ शꣳसन्ति ।

ओमित्य॑ध्व॒र्युः प्र॑तिग॒रं प्रति॑गृणाति ।

ओमिति॒ ब्रह्मा॒ प्रसौ॑ति । ओमित्य॑ग्निहो॒त्रमनु॑जानाति ।

ओमिति॒ ब्राह्म॒णः प्र॑व॒क्ष्यन्ना॑ह॒ ब्रह्मोपा᳚प्नवा॒नीति॑ ।

ब्रह्मै॒वोपा᳚प्नोति ॥

ऋतं च स्वाध्यायप्रव॑चने॒ च ।

सत्यं च स्वाध्यायप्रव॑चने॒ च ।

तपश्च स्वाध्यायप्रव॑चने॒ च ।

दमश्च स्वाध्यायप्रव॑चने॒ च ।

शमश्च स्वाध्यायप्रव॑चने॒ च ।

अग्नयश्च स्वाध्यायप्रव॑चने॒ च ।

अग्निहोत्रं च स्वाध्यायप्रव॑चने॒ च ।

अतिथयश्च स्वाध्यायप्रव॑चने॒ च ।

मानुषं च स्वाध्यायप्रव॑चने॒ च ।

प्रजा च स्वाध्यायप्रव॑चने॒ च ।

प्रजनश्च स्वाध्यायप्रव॑चने॒ च ।

प्रजातिश्च स्वाध्यायप्रव॑चने॒ च ।

सत्यमिति सत्यवचा॑ राथी॒ तरः ।

तप इति तपोनित्यः पौ॑रुशि॒ष्टिः ।

स्वाध्यायप्रवचने एवेति नाको॑ मौद्ग॒ल्यः ।

तद्धि तप॑स्तद्धि॒ तपः ॥

अ॒हं वृ॒क्षस्य॒ रेरि॑वा । की॒र्तिः पृ॒ष्ठं गि॒रेरि॑व ।

ऊ॒र्ध्वप॑वित्रो वा॒जिनी॑व स्व॒मृत॑मस्मि ।

द्रवि॑णꣳसवर्चसम् । सुमेध अ॑मृतो॒क्षितः ।

इति त्रिशङ्कोर्वेदा॑नुव॒चनम् ॥

वेदमनूच्याचार्योन्तेवासिनम॑नुशा॒स्ति ।

सत्यं॒ वद । धर्मं॒ चर । स्वाध्याया᳚न्मा प्र॒मदः ।

आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्य॑वच्छे॒त्सीः ।

सत्यान्न प्रम॑दित॒व्यम् । धर्मान्न प्रम॑दित॒व्यम् ।

कुशलान्न प्रम॑दित॒व्यम् । भूत्यै न प्रम॑दित॒व्यम् ।

स्वाध्यायप्रवचनाभ्यां न प्रम॑दित॒व्यम् ॥

देवपितृकार्याभ्यां न प्रम॑दित॒व्यम् । मातृ॑देवो॒ भव ।

पितृ॑देवो॒ भव । आचार्य॑देवो॒ भव । अतिथि॑देवो॒ भव ।

यान्यनवद्यानि॑ कर्मा॒णि । तानि सेवि॑तव्या॒नि । नो इ॑तरा॒णि ।

यान्यस्माकꣳसुच॑रिता॒नि । तानि त्वयो॑पास्या॒नि ॥

नो इ॑तरा॒णि । ये के चास्मच्छ्रेया॑ꣳसो ब्रा॒ह्मणाः ।

तेषां त्वयाऽऽसनेन प्रश्व॑सित॒व्यम् । श्रद्ध॑या दे॒यम् ।

अश्रद्ध॑याऽदे॒यम् । श्रि॑या दे॒यम् । ह्रि॑या दे॒यम् ।

भि॑या दे॒यम् । संवि॑दा दे॒यम् ।

अथ यदि ते कर्मविचिकित्सा वा वृत्तविचिकि॑त्सा वा॒ स्यात् ॥

ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।

अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तत्र॑ वर्ते॒रन् ।

तथा तत्र॑ वर्ते॒थाः । अथाभ्या᳚ख्या॒तेषु ।

ये तत्र ब्राह्मणाः᳚ संम॒र्शिनः । युक्ता॑ आयु॒क्ताः ।

अलूक्षा॑ धर्म॑कामाः॒ स्युः । यथा ते॑ तेषु॑ वर्ते॒रन् ।

तथा तेषु॑ वर्ते॒थाः । एष॑ आदे॒शः । एष उ॑पदे॒शः ।

एषा वे॑दोप॒निषत् । एतद॑नुशा॒सनम् । एवमुपा॑सित॒व्यम् ।

एवमु चैत॑दुपा॒स्यम् ॥

शं नो॑ मि॒त्रः शं वरु॑णः । शं नो॑ भवत्वर्य॒मा ।

शं न॒ इन्द्रो॒ बृह॒स्पतिः॑ । शं नो॒ विष्णु॑रुरुक्र॒मः ।

नमो॒ ब्रह्म॑णे । नम॑स्ते वायो । त्वमे॒व प्र॒त्यक्षं॒ ब्रह्मा॑सि ।

त्वामे॒व प्र॒त्यक्षं॒ ब्रह्मावा॑दिषम् । ऋ॒तम॑वादिषम् ।

स॒त्यम॑वादिषम् । तन्मामा॑वीत् । तद्व॒क्तार॑मावीत् ।

आवी॒न्माम् । आवी᳚द्व॒क्तारम्᳚ ।

॥ ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥