हरि सर्वोत्तम । वायु जीवोत्तम । श्री गुरुभ्यो नमः ।
*NOTE: Choose desired output script using Aksharamukha (screen top-right) to see Vedaswara.
॥ ऋग्वेद पुरुषसूक्तम् ॥
सहस्रशीर्षेति षोडशर्चस्य सूक्तस्य
नारायणऋषिः पुरुषो देवता
अनुष्टुप् चंदः अंत्यात्रिष्टुप् चंदह
परमपुरुषो देवता
पुरुषसूक्त पारायणे विनियोगह ॥
हरिः ओं । स॒हस्र॑शीर्षा॒ पुरु॑षः । सहस्रा॒क्षस्स॒हस्र॑पात् ।
स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वाऽत्य॑तिष्ठद्दशांगु॒लम् । १ ।
पुरु॑ष ए॒वेदं सर्वं॒ । यद्Bऊ॒तं यच्च॒ Bअव्य᳚म्।
उ॒तामृ॑त॒त्वस्यॆशा᳚नो॒ । यदन्ने᳚नाति॒ रोह॑ति । २ ।
ए॒तावा᳚नस्य महि॒माऽतो॒ ज्यायां᳚श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा᳚ Bऊ॒तानि॑ त्रि॒पाद॑स्यामृतं᳚ दि॒वि । ३ ।
त्रिपादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादॊ᳚ऽस्ये॒हा भ॑व॒त् पुनः॑ ।
ततॊ॒ विष्व॒ङ् व्य॑क्रामत् । साशनानश॒नॆ अ॒भि । ४ ।
तस्मा॑द्वि॒राळ॑जायत । वि॒राजॊ॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भू॒मिमथो॑ पु॒रः । ५ ।
यत् पुरु॑षेण ह॒विषा᳚ । दॆ॒वा य॒ज्ञ मत᳚न्वत ।
व॒सं॒तो अ॑स्यासी॒दाज्यं᳚ । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः । ६ ।
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जंत सा॒ध्या ऋष॑यश्च॒ ये । ७ ।
तस्मा᳚द् य॒ज्ञात् स॑र्व॒हुतः॒ संBऋ॑तं पृषदा॒ज्यम् ।
प॒शूंस्तांश्चके॑ वाय॒व्या॑नार॒ण्यान् ग्रा॒म्यांश्च॒ये । ८ ।
तस्मा᳚द् य॒ज्ञात स॑र्व॒हुत॒ ऋच॒ स्सामा᳚नि जज्ञिरे ।
छंदा॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत । ९ ।
तस्मा॒दश्वा᳚ अजायंत॒ ये के चो᳚ भ॒याद॑तः ।
गावो᳚ ह जज्ञिरे॒ तस्मा॒त् तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ । १० ।
यत् पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू का Vऊ॒रू पादा᳚ उच्येते । ११ ।
ब्रा॒ह्म॒णॊ᳚स्य॒ मुख॑मासी द्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्Bयां᳚ शू॒द्रो अ॑जायुत । १२ ।
चं॒द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायुत ।
मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत । १३ ।
नाBया᳚ आसीदं॒तरि॑क्षं । शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्Bयां Bऊमि॒र्दिश॒श्श्रोत्रा॒त्तथा॑ लॊ॒कां अ॑कल्पयन् । १४ ।
स॒प्तास्या॑ऽसन् प॒रिध॒य स्त्रिस्स॒प्त स॒मिधः कृ॒ताः ।
दॆ॒वा यद्य॒ज्ञं त᳚न्वा॒नाः अब॑ध्न॒न् पु॑रुषं प॒शुम् । १५ ।
य॒ज्ञेन॑ य॒ज्ञ म॑यजंत दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या॑सन् ।
तॆह॒ नाकं᳚ महि॒मानः॑ सचंत यत्र॒ पूर्वे᳚ सा॒ध्यासंति॑ दॆ॒वाः । १६ ।
अतो॑ दे॒वा अ॑वंतु नो॒ यतो॒ विष्णु॑र्विचक्र॒मे ॥
पृ॒थि॒व्या स्स॒प्तधाम॑भिः ॥ इ॒दं विष्णु॒र्विच॑क्र॒मे
त्रेथ निद॑धे प॒दम् । समू᳚ळ्हमस्य वंसु॒रे ॥
त्रीणि॑ प॒दा विच॑क्रमे॒ । विष्णु॑र्गो॒पा अदा᳚भ्यः । अतो॒
धर्मा᳚णि धा॒रय॑न् ॥ विष्णोः॒ कर्मा᳚णि पश्य॒त् यतो᳚व्र॒तानि॑ पस्व॒शे ।
इंद्र॑स्य॒ युज्य॒स्यखा᳚ ॥ तद्विष्णोः᳚ पर॒मं पदं सदा᳚ पश्यंति सॊ॒रयः॑ ।
दि॒वी᳚व॒ चक्षु॒रात॑तम् ॥ तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसस्स॒मिं᳚धते ।
विष्णो॒र्यत् प॑र॒मं प॒दं ॥ ओं शांति॒ श्शांति॒ श्शांति॑ ॥
॥ भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु ॥